अपि भगवान्नाम कश्चित् ?

 

आम् , परंतु अरूप: ,अनाम, अलिंग:,

अलघु:,अदीर्घ:,असमीपं,अदूरं,नसद्, नासद् यत: अरूप: एव रुपवान् ,अनाम एव नामवान् ,अलिंग: एव लिंगवान् ,अलघु: एव लघु:,अदीर्घ: एव दीर्घ: ,असमीपं एव समीपं, अदूरं एव दूरं ,असदेव सद् ,भवितुं क्षम: नान्य:। चेत् भगवान् पुरुष: तु स्त्री: कथम्?,लघु: तु दीर्घ: कथम्? सद् तु असद् कथम्?

कर्ता तु अकर्ता , भोक्ता तु अभोक्ता,दृश्य: तु अदृश्य: कथम्?

भगवत्त: एव संसार: संभवति,तस्मिन्नेव च

प्रलीयते।कारणं सदा अव्यक्तं तथा कार्यं सदा व्यक्तं भवति। अतः आदिहेतु: भगवान् सदा अनाम,अरूप:, अव्यक्त: अविभक्त:सन् क्रीडया विभक्त :इव नानारूपेषु,नानानामसु, नानावर्णेषु च दृश्यते।लूताया: जालमिव भगवान्  जगदिदं अनपेक्षया सृजते संहरते च।

              प्रस्तुतकर्ता 

   डाक्टर हनुमान प्रसाद चौबे 

               गोरखपुर।

नोट:- लेख का उद्देश्य किसी को हानि अथवा ठेस पहुंचाना नहीं है।लेख, लेखक के अपने विचार है इसमें प्रकाशक की सहमति आवश्यक नहीं है।



Post a Comment

Previous Post Next Post